अनु + ग्रह् (to bless) + सन् (to desire to …) + अ (भावे) + टाप् (स्त्री)
ग्रह् उपदाने (9P) to seize
ग्रह् + सन् 3.1.7
धातोः कर्मणः समानकर्तृकादिच्छायां वा । ~ सन्
ग्रह् ग्रह् + स 6.1.9
सन्यङोः । ~ एकाचः द्वे प्रथमस्य
ग ग्रह् + स 7.4.60
हलादिः शेषः । ~ अभ्यासस्य
ज ग्रह् + स 7.4.62
कुहोश्चुः । ~ अभ्यासस्य
जि ग्रह् + स 7.4.79
सन्यतः । ~ इत् अभ्यासस्य
सन् is किद्वत्. 1.2.8 रुदविदमुषग्रहिस्वपिप्रच्छः संश्च । ~ कित्
ग् ऋ अ ह् + स 6.1.16
ग्रहिज्यावयिव्यधिवह्टिविचतिवृश्चतिपृच्चतिभृज्जतीनां ङिति
च । ~ किति संप्रसारणम्
जि गृह् + स 6.1.108
संप्रसारणाच्च । ~ पूर्वरूपम्
जि गृढ् + स 8.2.31
हो ढः । ~ झलि
जि घृढ् + स 8.2.37
एकाचो बशो भष् झषन्तस्य स्ध्वोः । ~ धातोः
जि घृक् + स 8.2.41
षढोः कः सि ।
जि घृक् + ष 8.3.59
आदेशप्रत्यययोः । ~ अपदान्तस्य सः मूर्धन्यः इण्कोः
जिघृक्ष
धातुसंज्ञा 3.1.32 सनाद्यन्ता धातवः ।
अनु + जिघृक्ष + अ 3.3.102
अ प्रत्ययात् । ~ स्त्रियाम्
प्रातिपदिकसंज्ञा 1.2.46 कृत्तद्धितसमासाश्च । ~ प्रातिपदिकम्
अनुजिघृक्ष + टाप् 4.1.4
अजाद्यतष्टाप् । ~ स्त्रियाम्
अनुजिघृक्षा 6.1.101
अकः सवर्णे दीर्घः ।
As
in उपोद्घातभाष्य for भगवद्गीता
स्वप्रयोजनाभावेऽपि
भूतानुजिघृक्षया वैदिकं धर्मद्वयम् अर्जुनाय शोकमोहमहोदधौ निमग्नाय उपदिदेश ...।